श्री मारुति कवचम्
॥ श्री मारुति कवचम् ॥
॥ श्रीगणेशाय नमः ॥
ॐ नमो भगवते विचित्रवीरहनुमते
प्रलयकालानलप्रभाप्रज्वलनाय ।
प्रतापवज्रदेहाय ।
अञ्जनीगर्भसम्भूताय ।
प्रकटविक्रमवीरदैत्यदानवयक्षरक्षोगणग्रहबन्धनाय ।
भूतग्रहबन्धनाय ।
प्रेतग्रहबन्धनाय ।
पिशाचग्रहबन्धनाय ।
शाकिनीडाकिनीग्रहबन्धनाय ।
काकिनीकामिनीग्रहबन्धनाय ।
ब्रह्मग्रहबन्धनाय ।
ब्रह्मराक्षसग्रहबन्धनाय ।
चोरग्रहबन्धनाय ।
मारीग्रहबन्धनाय ।
एहि एहि । आगच्छ आगच्छ ।
आवेशय आवेशय ।
मम हृदये प्रवेशय प्रवेशय ।
स्फुर स्फुर । प्रस्फुर प्रस्फुर ।
सत्यं कथय ।
व्याघ्रमुखबन्धन ।
सर्पमुखबन्धन ।
राजमुखबन्धन ।
नारीमुखबन्धन ।
सभामुखबन्धन ।
शत्रुमुखबन्धन ।
सर्वमुखबन्धन ।
लङ्काप्रासादभञ्जन ।
अमुकं मे वशमानय ।
क्लीं क्लीं क्लीं ह्रीं श्रीं श्रीं राजानं वशमानय ।
श्रीं ह्रीं क्लीं स्त्रियः आकर्षय आकर्षय ।
शत्रून् मर्दय मर्दय ।
मारय मारय ।
चूर्णय चूर्णय ।
खे खे ।
श्रीरामचन्द्राज्ञया मम कार्यसिद्धिं कुरु कुरु ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट् स्वाहा ॥
विचित्रवीर हनूमन् मम सर्वशत्रून्
भस्मी कुरु कुरु ।
हन हन हुं फट् स्वाहा ॥
एकादशशतवारं जपित्वा
सर्वशत्रून् वशमानयति
नान्यथा इति ॥
॥ इति श्री मारुति कवचम् सम्पूर्णम् ॥