श्री बटुक भैरव स्तोत्रम्
॥ श्री बटुक भैरव स्तोत्रम् ॥
॥ ध्यानम् ॥
वन्दे बालं स्फटिक-सदृशं कुन्तलोल्लासि-वक्त्रम् ।
दिव्याकल्पैर्नव-मणिमयैः किंकिणी-नूपुराढ्यम् ॥
दीप्ताकारं विशद-वदनं सुप्रसन्नं त्रि-नेत्रम् ।
हस्ताब्जाभ्यां बटुकमनिशं शूल-दण्डौ दधानम् ॥
॥ मूल स्तोत्र ॥
ॐ भैरवो भूतनाथश्च भूतात्मा भूतभावनः ।
क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रदः क्षत्रियो विराट् ॥१॥
श्मशानवासी मांसाशी खर्पराशी स्मरान्तकृत् ।
रक्तपः पानपः सिद्धः सिद्धिदः सिद्धिसेवितः ॥२॥
कंकालः कालशमनः कलाकाष्ठातनुः कविः ।
त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥३॥
शूलपाणिः खड्गपाणिः कंकाली धूम्रलोचनः ।
अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः ॥४॥
धनदोऽधनहारी च धनवान् प्रतिभागवान् ।
नागहारो नागकेशो व्योमकेशः कपालभृत् ॥५॥
कालः कपालमाली च कमनीयः कलानिधिः ।
त्रिनेत्रो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकभृत् ॥६॥
त्रिवृत्ततनयो डिम्भः शान्तः शान्तजनप्रियः ।
बटुको बटुवेषश्च खट्वाङ्गवरधारकः ॥७॥
भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः ।
धूर्तो दिगम्बरः शौरिर्हरिणः पाण्डुलोचनः ॥८॥
प्रशान्तः शान्तिदः शुद्धः शंकरप्रियबान्धवः ।
अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः ॥९॥
अष्टाधारः षडाधारः सर्पयुक्तः शिखीसखः ।
भूधरो भूधराधीशो भूपतिर्भूधरात्मजः ॥१०॥
कपालधारी मुण्डी च नागयज्ञोपवीतवान् ।
जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥११॥
शुद्धनीलाञ्जनप्रख्यदेहः मुण्डविभूषणः ।
बलिभुग् बलिभुङ्नाथो बालो बालपराक्रमः ॥१२॥
सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः ।
कामी कलानिधिः कान्तः कामिनीवशकृद्वशी ॥१३॥
जगद्रक्षाकरोऽनन्तो मायामन्त्रौषधीमयः ।
सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुरितीव हि ॥१४॥
॥ फलश्रुति ॥
अष्टोत्तरशतं नाम्नां भैरवस्य महात्मनः ।
मया ते कथितं देवि रहस्यं सर्वकामदम् ॥१५॥
य इदं पठते स्तोत्रं नामाष्टशतमुत्तमम् ।
न तस्य दुरितं किञ्चिन्न च भूतभयं तथा ॥१६॥
न शत्रुभ्यो भयं किञ्चित् प्राप्नुयान्मानवः क्वचित् ।
पातकेभ्यो भयं नैव पठेत् स्तोत्रमतः सुधीः ॥१७॥
मारीभये राजभये तथा चौराग्निजे भये ।
औत्पातिके भये चैव तथा दुःस्वप्नजे भये ॥१८॥
बन्धने च महाघोरे पठेत् स्तोत्रमनन्यधीः ।
सर्वं प्रशममायाति भयं भैरवकीर्तनात् ॥१९॥
॥ क्षमा प्रार्थना ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाकर्म न जानामि क्षमस्व परमेश्वर ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
मया यत्पूजितं देव परिपूर्णं तदस्तु मे ॥
॥ इति श्री बटुक भैरव स्तोत्रं सम्पूर्णम् ॥