श्री हनुमद् शत्रुंजय स्तोत्रम्
श्रीमन्तं हनुमन्तमार्तरिपुभिद्भूभृत्तटभ्राजितं चाल्पद्वालधिबन्धवैरिनिचयं चामीकराद्रिप्रभम् । अष्टौ रक्तपिशङ्गनेत्रनलिनं भ्रूभङ्गभङ्गस्फुरत् प्रोद्यच्चण्डमयूखमण्डलमुखं दुःखापहं दुःखिनाम् ॥ कौपीनं कटिसूत्रमौञ्ज्यजिनयुग्देहं विदेहात्मजा- प्राणाधीशपदारविन्दनिरतं स्वान्तःकृतान्तं द्विषाम् । ध्यात्वैवं समराङ्गणस्थितमथानीय स्वहृत्पङ्कजे सम्पूज्याखिलपूजनोक्तविधिना सम्प्रार्थयेदर्चितम् ॥ ।।स्तोत्रम्।। हनुमन्नञ्जनासूनो महाबलपराक्रम ।…
